Comprehension Passage
निर्देश: अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।
न पृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पृच्छतः
जानन्नपि हि मेधावी जडवल्लोकमाचरेत्॥1॥
सर्वेषामपि शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिः स हि शुचिः न मृद्वारिशुचिः॥2॥
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्॥3॥
यथा धेनुसहस्रेषु वत्सो गच्छति मातरम्।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति॥4॥
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्॥5॥
स्वीकुर्यात् इत्यस्य कृते कः शब्दः श्लोके प्रयुक्तः?
1
न स्वीकुर्यात्
2
ग्राह्यम्
3
न ग्राह्यम्
4
पतनम्
5
उत्तरं न दातुमिच्छामि