Comprehension Passage
निर्देश:- निम्नलिखित पद्यांश पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि ददातु-
आपत्सु मित्रं जानीयात् युद्धे शूरम् ऋणे शुचिम्।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्।।१।।
न सा सभा यत्र न सन्ति वृद्धाः,
न ते वृद्धाः ये न वदन्ति धर्मम्।
नासौ धर्मौ यत्र न् सत्यमस्ति,
न तत् सत्यं यच्छलेनाभ्युपेतम्।।२।।
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः।।३।।
यस्यास्ति वित्तं स नरः कुलीनः,
स पण्डितः स श्रुतवान् गुणज्ञः।
स एव वक्ता स च दर्शनीयः,
सर्वे गुणाः काञ्चनम् आश्रयन्ते।।४।।
क्षीणेषु वित्तेषु कां जानीयात्?
1
मित्रम्
2
भार्याम्
3
शुचिम्
4
बान्धवान्
5
उत्तरं न दातुमिच्छामि