निर्देश: अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत्।
शिक्षक: गणतन्त्रदिवसे भारतराष्ट्रपतिः स्थल-जल-वायुसेनानायकानाम् अभिवन्दनं स्वीकरोति एवं विभिन्नराज्येषु ततद्राज्यपाला: प्रतिनिधित्वं वहन्ति। विविध प्रान्तेभ्यः समागता: कलाकाराः सांस्कृतिककार्यक्रमैः जानपदनृत्यैः च जनमांसि रञ्जयन्ति।
नरेश: गुरो! गणतन्त्रम् इत्यस्य कोऽर्थः?
शिक्षक: समुचितः प्रश्नः, भारतं स्वशासनाधारण रचितानां राज्यानां गणरूपं वर्तते। राज्यस्तरे प्रादेशिक शासनं, राष्ट्रियस्तरे गणतन्त्रम् एकरूपं प्रवर्तते।
श्यामला: गुरो! अस्य पर्वणः ऐतिहासिक महत्त्वं ज्ञातुम् इच्छामि।
शिक्षक: अहं विस्तरेण वदामि। परतन्त्रताकाले ३१-१२-१९२९ दिनाङ्कतः ०१-०१-१९३० यावत्तात्कालिक काङ्ग्रेससंस्थायाः लाहौरनगरे अधिवेशनं अभवत्। तस्मिन् अधिवेशने ‘सर्वैः राष्ट्रनायकैः सार्वभौमतन्त्रं रचयामः’ इति प्रतिज्ञा कृता। तत्रैव अधिवेशने राष्ट्रभक्तैः त्रिवर्णध्वजारोहण अपि कृतम्। भारतीयानाम् अयं प्रतिज्ञास्वप्नः १९४७ तमे वर्षे अगस्तमासस्य पञ्चदश दिनाङ्के पूर्णतां गतः। देशः स्वतन्त्रः अभवत्। तदारभ्य प्रतिवर्ष १५ अगस्तदिने वयं स्वतन्त्रतादिवसं आयोजयामः। अनन्तरं २६ जनवरी १९५० तमे वर्षे अस्माकं संविधानम् प्रारब्धम् इति कारणतः प्रतिवर्ष-अस्मिन् दिने समग्रे राष्ट्रे वयं गणतन्त्रदिवसम् आचरामः। सर्वे-धन्यवादाः, अस्माभिः स्वतन्त्रतादिवसस्य, गणतन्त्रदिवसस्य च महत्त्वं ज्ञाताः।
शिक्षक: स्वस्ति! सर्वेभ्यः।