Comprehension Passage

निर्देश: निम्नलिखित गद्याधारिताना प्रश्नानां समुचितानि उत्तराणि चिनुत - 

कर्णाटकराज्यस्य मण्ड्यमण्डले नागमङ्गलोपमण्डले शोभते मेलुकोटै-इति साधकानां तीर्थक्षेत्रम्। एतत्‌ स्थानं तिरुनारायणपुरं, यादवाद्रिः नारायणाद्रिः, वेदाद्रिः, यदुगिरिः इत्यपि कथ्यते। 3589 पादपरिमिते उन्नतप्रदेशे यदुगिरिशिखरे निर्मितं दुर्गम्‌ अस्ति इति कारणतः एतत्‌ क्षेत्रं मेलुकोटे इति प्रसिद्धम्‌ अभवत्‌। दक्षिणभारते विद्यमानेषु चतुर्षु वैष्णवक्षेत्रेषु मेलुकोटे अन्यतमम्‌। अत्र श्रीचेलुवनारायणस्वामिमन्दिरम अत्यन्तं सुन्दरम्‌ अस्ति। पर्वतप्रदेशे स्थितं योगनरसिंहमन्दिरम् अपरं सुन्दरं देवस्थानम्‌। कृतयुगादारभ्य अत्र पूजा प्रचलति इति विशेषः। ब्रह्मणा पूजितः देवः, तस्य मानसपुत्रेण सनत्कुमारेण भूलोके अत्र प्रतिष्ठापितः इत्यभिप्रायः वर्तते। 

तमिलनाडुराज्ये चोलराजस्य दुष्कृत्यम्‌ असहमानः विशिष्टद्वैतसिद्धान्तप्रतिपादकः श्रीमद्रामानुजाचार्यः कर्णाटकराज्यस्य तोण्डनूरुग्रामम्‌ आगच्छत्‌। तदा बिट्टिदेव इति जैनराजः राज्यं परिपालयति स्म। तस्य पुत्री मनोव्याधिना पीडिता आसीत्‌। पुत्र्या: रोगं निवारयितुं राजा रामानुजाचार्य प्रार्थितवान्‌। आचार्यः स्वदिव्यशक्त्या रोगं पर्यहरत्‌। ततः राजा बिट्टिदेव वैष्णवमतदीक्षां प्राप्य विष्णुवर्धनो भूत्वा रामानुजाचार्यस्य शिष्यः अभवत्‌।

श्रीरामानुजाचार्यः ख्रिस्ताब्दे १११० तमे वर्षे श्रीचेलुवनारायणम्‌ अत्र प्रतिष्ठापितवान्‌ इति एैतिह्यम्‌ अस्ति। लुवनारायणस्वामिमन्दिरम्‌ २८० पादपरिमि तं चतुरस्रमस्ति। होय्सल राजा विष्णुवर्धनः अस्य देवालयस्य अभिवृद्धये कारणभूतः वर्तते। श्रीचेलुवनारायणस्वामिनः मूर्तिः मनोरमा विराजते। अस्य उत्सवमूर्तिः लुण्ठाकेः चोरिता आसीत्‌। श्रीरामानुजाचार्यः स्वज्ञानदृष्ट्या उत्सवमूर्तिम्‌ अन्विष्य तां मूर्तिम्‌ आनीय उत्सवान्‌ पुनः आरभत। निर्दिष्टदिनेषु स्वामिनं चेलुवनारायणं वैरमुडि, राजमुडि, कृष्णराजमुडि इति विविधैः किरीटैः अलङ्कुर्वन्ति। तत्तद्दिने वैरमुडि, राजमुडि, कृष्णराजमुडि इत्‍युाद्युत्‍सवा∶ आचर्यन्‍ते। वैरमुडि इत्युत्सवः प्रतिवर्षं फाल्गुणमासस्य पुष्यनक्षत्रकाले वैभवेन आचर्यते। रात्रौ एतमुत्सव बीक्षितुं लक्षाधिकजनाः अत्र आगच्छन्ति।

पर्वतप्रदेशे स्थितः योगनरसिहः, भक्तप्रह्लादस्य तपसः फलरूपेण प्रत्यक्षो बभूव इति विश्वासः अस्ति। एषः देवः चतुर्भुजः भव्यमूर्तिरूपः। कल्याणीतीर्थम्‌; अक्कन कोल, तङ्गिय कोल, रायगोपुरम्‌, एकशिलानिर्मिताः 60 पादपरिमितोन्नताः निराधाराः चत्वारः स्तम्भाः इत्यादीनि अत्रत्यानि आकर्षकस्थानानि। धनुष्कोटि∶ इति तीर्थक्षेत्रं देवालयतः अनल्प दूरे अस्ति। पुराणकथानुसारं श्रीरामः सीतया सह अत्र आजगाम। तदा सीतायाः स्नानार्थं बाणप्रयोगेण अत्र जलोद्रमनं चकार इति कथा श्रूयते।

क्षेत्रमिदं मण्ड्यनगरात्‌ 36 कि.मी. पाण्डवपुरतः 29 कि.मी., मैसूरुनगरात्‌ 70 कि.मी., बेङ्गलूरुमहानगरात्‌ 157 कि.मी. दूरे अस्ति। अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति। जक्कणाचारि नाम्‍ना अमरशिल्पिना अर्धनिर्मितानि चत्वारि राजगोपुराणि, पुराणेषु नयनश्रेत्रम् इति प्रसिद्धं गुहालयद्वयं च वर्तन्‍ते। एकशिलापर्वतम्‌ उत्‍कीर्य एतौ गुहालयौ निर्मितौ। अत्र श्रीमन्नारायण∶ केशवरूपेण दर्शनम्‌ अयच्छत्‌। दलवायिसरः, होरगम्ममन्दिरम्‌, संस्कृतसंशोधनसंसत्‌, कर्नाटकसर्वकारस्य प्रथमा संस्कृतमहापाठशाला वेदान्तबोधिनी' महापाठशाला, अष्टतीर्थानि च दर्शनयोग्यानि प्रसिद्धस्थलानि वर्तन्ते।

मेलुकोटे कस्मिन् मण्डले भवति?

1
बल्लारि
2
नागमङ्गलोप
3
मैसूरु
4
यदुगिरिः
5
उत्तरं न दातुमिच्छामि

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation