Comprehension Passage
प्रस्तुतं गद्यांशम् आधारीकृत्य निम्नलिखिताः प्रश्नाः समाधेयाः -
अथ का नाम संस्कृतिः ? मनसः आत्मनः च संस्कारः परिष्कारः इति संस्कृतिः । संस्कृतिः मनः निर्मलं करोति । विश्वसंस्कृतिषु भारतीय संस्कृतिः प्राचीनतमा । भारतीय संस्कृतेः आदर्शवाक्यानि सन्ति --- 'सर्वे भवन्तु सुखिनः', 'वसुधैव कुटुम्बकम्', 'आत्मवत् सर्वभूतेषु, 'अहिंसा परमोधर्मः', 'मातृवत् परदारेषु परद्रव्येषु लोष्ठवत्' इत्यादीनि । भारतीय संस्कृतिः धर्मप्रधाना, वर्णाश्रम - व्यवस्थायुक्ता चास्ति । कर्मफलं, पुनर्जन्म, मोक्षवादः च अस्या∶ प्रमुखाः सिद्धान्ताः सन्ति । सत्यस्य, त्यागस्य, अहिंसायाः च अत्र महत्त्वं वर्तते। विश्वहितस्य मूलभूताः भावनाः भारतीयसंस्कृतौ उपलभ्यन्ते ।
किम् अस्माकं कुटुम्बकम् अस्ति?
1
सागरः
2
वसुधा
3
स्वर्गः
4
पातालः