Comprehension Passage
अयमेव चानास्वादित-विषय- रसस्य ते काल उपदेशस्य । कुसुमशर शर - प्रहारजर्जरिते हि हृदये जलमिव गलत्युपदिष्टम्। अकारणञ्च भवति दुष्प्रकृतेरन्वयः श्रुतं चाविनयस्य । चन्दप्रभवो न दहति किमनलः? किंवा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलस्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः। विशेषेणतु राज्ञाम्। विरला हि तेषामुपदेष्टारः । प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । उद्दामदर्पश्वयथुस्थगितश्रवणविवराश्चोपदिश्यमानमपि ते न शृण्वान्ति। श्रृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहंकार - दाहज्वर-मूर्च्छान्धकारिता विह्वाला। हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीशि धनानि, राज्यविषविकार - तन्द्राप्रदा राजलक्ष्मीः।

उपदेशस्य सफलतां कः न जानयति?

1
ये नीचवर्णे जायन्ते
2
राज प्रकृतिः
3
प्रजानां रसम् आस्वादितवान्
4
विनयरहित पुरुष

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation