Comprehension Passage

अधोलिखितं परिच्छेदं पठित्वा अधस्तनप्रश्नस्य उत्तरं देयम्-

अनुमितौ व्याप्तिज्ञानं करणं, परामर्शो व्यापारः। तथाहि येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता, पश्चात् स एव पुरुषः क्वचित् पर्वतादावविच्छिन्नमूलां धूमरेखां पश्यति, तदनन्तरं 'धूमो वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं तस्य भवति, पश्चाच्च वह्निव्याप्यधूमवानयमिति ज्ञानं, स एव परामर्श इत्युच्यते। तदनन्तरं पर्वतो वह्निमानित्यनुमितिर्जायते। अत्र प्राचीनास्तु व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति वदन्ति तद्दूषयति- ज्ञायमानमिति । लिङ्गस्यानुमित्यकरणत्वे युक्तिमाह - अनागतादीति। यद्यनुमितौ लिङ्गं करणं स्यात्, तदाऽनागतेन लिङ्गेन, विनष्टेन, चाऽनुमितिर्न स्यात्. अनुमितिकरणस्य लिङ्गस्य तदानीमभवादिति ।

अनुमितौ व्याप्तिज्ञानं भवति-

1
व्यापारः
2
फलम्
3
करणम्
4
लिङ्गम्

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation