Comprehension Passage

निर्देशः निम्नलिखितानि पद्यानि पठित्वा षट्प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि।

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।

आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।।1।।

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः।

सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।2।।

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमा।

चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ।।3।।

वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्।

वृथा दानं समर्थस्य वृथा दीपो दिवापि च ।।4।।

शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः।

नीचो वदति न कुरुते, न वदति सुजनः करोत्येव ।।5।।

'सर्पदुर्जनयोः' इत्यस्मिन् समस्तपदे कः समासः?

1
बहुव्रीहिः
2
तत्पुरुषः
3
द्वन्द्वः
4
अव्ययीभावः
5
उत्तरं न दातुमिच्छामि

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation