Comprehension Passage
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत -
विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः।
धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा।।1।।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु।।2।।
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।।3।।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।4।।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्।।5।।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम्।।6।।
आयुः कस्य वर्धते ?
1
वादनशीलस्य
2
गायनशीलस्य
3
अभिवादनशीलस्य
4
अभिनयशीलस्य
5
उत्तरं न दातुमिच्छामि