Comprehension Passage
निर्देशः निम्नलिखितानि पद्यानि पठित्वा षट्प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि।
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।।1।।
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।2।।
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमा।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ।।3।।
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ।।4।।
शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः।
नीचो वदति न कुरुते, न वदति सुजनः करोत्येव ।।5।।
चन्दनाद् अधिकः कः शीतलः?
1
अमृतम्
2
नक्षत्रम्
3
शीत-ऋतु
4
चन्द्रमा
5
उत्तरं न दातुमिच्छामि