निर्देश: अनुच्छेदाधारितानां प्रश्नानां समुचितम् उत्तरं चिनुत -
उत्सवे व्यसने दुर्भिक्षे राष्ट्रविप्लवे शत्रुसङ्कटे च य सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति।
परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य शत्रुतायाः हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति।
एतेषां स्वैषां कारणं विश्वबन्धुत्वस्य अभाव एव। इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन ह्रदयेन बन्धुतायाः व्यवहारं कुर्यात्। यदि इयं भावना विश्वस्य जनेषु बलवती स्यात् तदा विकसिताविकसितदेशयोः मध्ये स्वस्था स्पर्धा भविष्यति। येन सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धिं प्राप्तुं समर्थाः भविष्यन्ति।