Comprehension Passage
निर्देश: निम्नलिखितानुच्छेदा-धारितानां प्रश्नानां समुचितम् उत्तरं चिनुत-
अस्ति मगधदेशे फुल्लोत्पलनाम सर:। सङ्कट-विकटनामकौ हंसौ निवसत:। कम्बुग्रीवनामा तयो: मित्रम् एक: कूर्म: अपि तत्रैव प्रतिवसति स्म।
अथ एकदा धीवरा: तत्र आगच्छन् अकथयन् च - वयं श्व: मत्स्य-कूर्मादीन् मारयिष्याम:। एतत् श्रुत्वा कूर्म: अवदत् - ''मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?'' हंसौ अवदताम् - ''प्रातः यद् उचितं तत्कर्त्तव्यम्।'' कूर्म: अवदत्-''मैवम्। तद् यथाऽहम् अन्यं ह्यदं गच्छामि तथा कुरूतम्।'' हंसौ अवदताम् - ''आवां किं करवावः?'' कूर्म: अवदत् - ''अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।'' हंसौ अवदताम् - ''अत्र क: उपाय:?'' कच्छप: वदति - ''युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।'' हंसौ अकथयताम् - ''सम्भवति एष: उपाय:। किन्तु अत्र एक: अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जना: किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अत: त्वम् अत्रैव वस।'' तत् श्रुत्वा क्रुद्ध: कूर्म: अवदत् - ''किमहं मूर्ख:? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।'' अत: अहं यथा उक्तवान् तथा युवां कुरूतम्।धीवरा: कान् मारयितुम् इच्छन्ति स्म ?
1
मत्स्य-कूर्मादीन्
2
कूर्मम्
3
मत्स्यान्
4
सङ्कटम्
5
उत्तरं न दातुमिच्छामि