Comprehension Passage

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम। श्रीकण्ठस्य पिता समद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्य कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।

एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् | अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतदृष्ट्वा श्रीकण्ठः अकथयत् मित्र! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकरा सन्ति। तदा कृष्णमूर्तिः अवदत् 'मित्र! ममापि अष्टौ कर्मकरा सन्ति।' श्रीकण्ठः अकथत् 'मित्र किन्तु ते न दृश्यन्ते'। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्तिः अकथयत् मित्र! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्तिः अकथयत् मम कर्मकरा: सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे च इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः न भवन्ति। यतोऽहि भृत्यानां कृते एतत् सम्भवमेव नास्ति।

त्वं तु स्वकार्याय सर्वदा भृत्याधीनः। यदा यदा ते अनुपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।

श्रीकण्ठः अवदत् मित्र! तव वचनानि श्रुत्वा मम मनसि महती। प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।

कृष्णमूर्तेः माता पिता कथम् आस्ताम्?

1
आधिकारिणौ
2
सभापती
3
धनवन्तौ
4
निर्धनौ
5
उत्तरं न दातुमिच्छामि

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation