Comprehension Passage

निर्देश:- अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत-

       एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः?

       तदा कश्चित् बालकः अगणयत् – एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्। अतः सः अवदत् – नव एव सन्ति। दशमः न अस्ति। अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिता तूष्णीम् अतिष्ठन्।

       तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – बालकाः! युष्माकं दुखस्य कारणं किम्? बालकानां नायकः अकथयत् – वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्मः। एकः नद्यां मग्नः। पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत् – ‘दशमः त्वम् असि’ इति।

       तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्वे गृहम् अगच्छन्।

समुचितम् उत्तरं चिनुत –

स्नातुम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?

1
स्नानाय।
2
स्नानम्।
3
मग्नः।
4
स्नानेन।
5
उत्तरं न दातुमिच्छामि

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation