Comprehension Passage

अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।

गङ्गानाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन्। तत्र एकस्मात् ग्रामात् बहिः वृक्षस्य अधः एकः जीर्णः कूपः आसीत्। तस्मिन् कूपे मण्डूकानाम् अधिपतिः गङ्गदत्तः परिजनैः सह निवसति स्म। सः गङ्गदत्तः परिश्रमं विनैव प्रभुत्वं प्राप्नोत्। अतः गर्वितः अभवत्। तस्य दुर्व्यव्हारेण केचित् प्रमुखाः भेकाः रुष्टाः जाताः। ते गङ्गदत्तम अधिकारेण हीनं कृत्वा कूपात् बहिः कर्तुम् उद्यताः अभवन्। तद् ज्ञात्वा गङ्गदत्तः विषादः अनुभवति स्म। ‘शत्रूणां नाशः कथं भवेत्' इति एकान्ते चाटुकारैः सह मन्त्रणाम् अकरोत्। एकः नष्टबुद्धिः नाम मण्डूकः नत्वा अकथयत् - नीति विना किमपि न सिद्ध्यति। शत्रुः शत्रुणा नाशयितव्यः' इति नीतिः। एषां शत्रूणां नाशाय सर्पः सहायकः भविष्यति। यः वृक्षस्य कोटरे निवसति। एवं संघर्ष विनैव शत्रुनाशः भविष्यति।

ततः मूढः गङ्गदत्तः कूपात् बहिरागत्य सर्पस्य समीपं गतः। सः सर्प सादरम् उच्चैः अवदत् - नागराजाय नमः। विषधरः अवदत् - स्वागतं सखे! किं ते प्रियं करवाणि। किमर्थं आगतः असि ? गङ्गदत्तः अवदत् - “त्वया सह मैत्री कर्तुं तव द्वारम् उपागतः। सर्पराजः तम् अपृच्छत् - भक्ष्यभक्षकयोः मध्ये कीदृशी मैत्री ? गङ्गदत्तः अकथयत् - सत्यम्, परम अधुना अपमानितः अहं तव साहाय्यं अभिलषामि। ‘कस्मात् ते परिभवः'? 'स्वजनेभ्यः' 'क्व ते निवासः वाप्यां, कूपे, तडागे वा'? 'कूपे'। 'आगच्छ मया सह कूपस्य अन्तःप्रविश्य मम् शत्रून् नाशय।

ततः सर्पराजः तस्य वचनं स्वीकृत्य अकथयत् - अलम् चिन्तया। अन्धः अस्मि। ‘मां कूपं नय’। तदा तत्र गत्वा गङ्गदत्तः तस्मै प्रतिदिनं एकैकं मण्डूकं भोजनाय प्रयच्छति स्म। क्रमशः स सर्पः सर्वान् भेकान् अभक्षयत् अकथयत् च - बुभुक्षितः अस्मि। ‘प्रयच्छ मे अन्यत् भोजनम्। गङ्गदत्तः अवदत्- ‘मार्गं देहि येन बहिः गत्वा अन्यस्मात् जलाशयात् मण्डूकान आनयामि'। ततः सर्पः तस्मै मार्गं दत्तवान्। गङ्गदत्तः बहिः आगत्य सोल्लासम् अवदत्- न गङ्गदत्तः पुनरेति कूपम्।

'अधिपतिः' इति पदस्य पर्यायः -

1
राजा
2
ईश्वरः
3
मन्त्री
4
राजपुरुषः

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation