Comprehension Passage

निम्‍नलिखितं गद्यांशं पठित्‍वा अष्‍टप्रश्‍नानां उचितं विकल्‍पं उत्तराणि दातव्यानि।

एकस्मिन् नदीतीरे एकः जम्बूवृक्षः आसीत्। तस्मिन् एकः वानरः प्रतिवसति स्म। सः नित्यं तस्य फलानि खादति स्म। कश्चित् मकरोऽपि तस्यां नद्यामवसत्। वानरः प्रतिदिनं तस्मै जम्बूफलान्यच्छत्। तेन प्रीतः मकरः तस्य वानरस्य मित्रमभवत्।

एकदा मकर: कानिचित् जम्बूफलानि पत्न्यै अपि दातुं आनयत्। तानि खादित्वा तस्य जाया अचिन्तयत् अहो! यः प्रतिदिनमीदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।

सा पतिमकथयत् – 'भोः! जम्बूभक्षकस्य तव मित्रस्य हृदयमपि जम्बूवत् मधुरं भविष्यति। अहं तदेव खादितुमिच्छामि। तस्य हृदयभक्षणे मम बलवती स्पृहा। यदि मां जीवितां द्रष्टुमिच्छसि तर्हि आनय शीघ्रं तस्य वानरस्य हृदयम्'।

पत्न्याः हठात् विवशः मकर: नदीतीरे गत्वा वानरमवदत्- ‘बन्धो! तव भ्रातृजाया त्वां द्रष्टुमिच्छति। अतः मम गृहमागच्छ'। वानरः अपृच्छत्- ‘कुत्र ते गृहम् ? कथमहं तत्र गन्तुं शक्नोमि?' मकरः अवदत्- ‘अलं चिन्तया। अहं त्वां स्वपृष्ठे धृत्वा गृहं नेष्यामि'।

तस्य वचनं श्रुत्वा विश्वस्तः वानरः तस्मात् वृक्षस्कन्धात् अवतीर्य मकरपृष्ठे उपाविशत्। नदीजले वानरं विवशं मत्वा मकरः अकथयत् – ‘मम पत्नी तव हृदयं खादितुमिच्छति । तस्यै तव हृदयं दातुमेव त्वां नयामि।'

चतुरः वानरः शीघ्रमकथयत् – 'अरे मूर्ख ! कथं न पूर्वमेव निवेदितं त्वया? मम हृदयं तु वृक्षस्य कोटरे एव निहितम्। अतः शीघ्रं तत्रैव नय येन अहम् स्वहृदयमानीय भ्रातृजायायै दत्त्वा तां परितोषयामि इति।'

मूर्खः मकरः तस्य गूढमाशयं अबुद्ध्वा वानरं पुनस्तमेव वृक्षमनयत्। ततः वृक्षमारुह्य वानरः अवदत् - ‘धिङ् मूर्ख! अपि हृदयं शरीरात् पृथक् तिष्ठति ? गच्छ, अतः परं त्वया सह मम मैत्री समाप्ता, सत्यमुक्तं केनचित् कविना-

विश्वासो हि ययोर्मध्ये तयोर्मध्येऽस्ति सौहृदम्।

यस्मिन्नवास्ति विश्वासः तस्मिन मैत्री क्व सम्भवा।।

मकरः पत्न्यै किं दातुम् आनयत् ?

1
जम्बूफलानि
2
वानरस्य हृदयम्
3
वानरस्य मांसम्
4
आम्रफलानि

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation