Comprehension Passage

निर्देशः निम्नलिखित गद्यांश पठित्वा नवप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि।

पार्वती शिवं पतिरूपेण प्राप्तुं तपस्याम् अकरोत्। सा पितृगृहं परित्यज्य कानने अवसत्। कानने हिंस्राः पशवः चरन्ति स्म। तथापि पार्वती निर्भया आसीत्। निर्भयं जनम् ईश्वरः स्वयमेव रक्षति।

पार्वत्याः कोमलतनुं दृष्ट्वा जननी आदिशत् - वत्से! क्व कठिनं तपः क्व च तव कोमलं शरीरम् ? कथम् आतपात् शीतात् वा आत्मानं रक्षिष्यसि ? तर्हि तपः मा चर। सुखेन स्वगृहे एव वस। अत्रैव व्रतादिकं कुरु। एतेनैव तव मनोरथः पूर्तिम् एष्यति।

परन्तु पार्वती अकथयत् – अम्ब! तपस्यामेव करिष्यामि। ईश्वरः मम रक्षा करिष्यति। तपस्यार्थं कोऽपि न गृहे वसेत्। एवमुक्त्वा सा वनमगच्छत् तपस्यांच समाचरत्।

कतिचित् मासाः गताः। एकदा कश्चिद् वटुः तपोवनं प्राविशत्। वटुं दृष्ट्वा पार्वती आसनात् उत्थाय तमुपगम्य सादरम् अकथयत्- वटो, स्वागतं ते। उपविशतु भवान्।

वटुः कुशलं पृष्ट्वा कौतूहलेन अपृच्छत् - हे तपस्विनि! किमर्थं कठिनं तपः समाचरसि ? स्वकीयां तनुं च मलिनां करोषि ? पार्वती न किञ्चिदवदत्। तत्सखी एव तस्याः तपसः प्रयोजनं वटवे न्यवेदयत्।।

तत श्रुत्वा बटुः अपृच्छत्- अयि पार्वति! किं सत्यमेव त्वं शिवं पतिमिच्छसि यो हि अशिवं चरति, श्मशाने वसति ? यस्य त्रीणि नेत्राणि, यस्य वसनं गजचर्म, यस्य अङ्गरागः चिताभस्म, यस्य परिजनाश्च भूतगणाः, किं तमेव शिवं पति कर्तुम् इच्छसि ?

शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता। सा अवदत् अपसर अरे वाचाल! त्वं महेश्वरस्य परमार्थस्वरूपमेव न जानासि। तत् नोचितं त्वया सह सम्भाषणम्।

एवमुक्त्वा यदा सा प्रस्थानाय उद्यता, तावदेव शिवः वटोः रूपं परित्यज्य तस्याः मार्गम् अवरुध्य अवदत्- ‘पार्वति! प्रीतोऽस्मि तव तपोभिः' इति।

पार्वत्याः तपसः प्रयोजनं बटवे कः/का न्यवेदयत्?

1
तस्याः माता।
2
वनचरः।
3
पार्वत्याः सखी।
4
स्वयं पार्वती।

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation