निर्देश:- निम्नलिखितान् श्लोकान् पठित्वा अधस्तनानां प्रश्नानाम् उत्तराणि ददातु-
पुस्तकेषु हि या विद्या परहस्तेषु यद् धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम्॥१॥
वृक्षः फलान्वितः भाति वृक्षं धूनयते कपिः
वृक्षेण वार्यते तापः जलं वृक्षाय दीयते।
वृक्षात् पतन्ति पर्णानि वृक्षस्य प्रसरो महान्
वृक्षे खगाः निकूजन्ति वृक्ष धन्योऽसि भूतले ॥ २ ॥
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः।
व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥ ३॥
पिबन्ति नद्यः स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥ ४॥
गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा
कावेरी सरयू महेन्द्रतनया चर्मण्वती वेदिका।
क्षिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी
पूर्णाः पूर्णजलैः समुद्रसहिताः कुर्वन्तु मे मङ्गलम्॥५॥
घृष्टं घृष्टं पुनरपि पुन:चन्दनं चारुगन्धं
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुदण्डम्।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं
न प्राणान्ते प्रकृतिविकृतिर्जायते सज्जनानाम्॥६॥