निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम्। उत्तरं चित्वा लिखत।
अनादिकालात् प्रचलन्त्याम् अस्माकं परम्परायां बहवः वैदिकाः ऋषयः अभवन्। महर्षिः वसिष्ठः महर्षिः विश्वामित्रः च वैदिककालीनौ ऋषी आस्ताम्। उचिते वयसि यथोचितं व्रतं पालयन्ती तौ महान्तौ तपस्विनौ अभवताम्। योग्याद् गुरोः स्वाध्यायम् अधीयानौ तौ ज्ञानिनौ सञ्जातौ। एवं तयोः उभयोः पार्श्वे तु ज्ञानस्य भण्डार एव आसीत्।
अनयोः महर्षिः विश्वामित्रः स्वभावेन क्रोधी आसीत्। परन्तु उग्राणि तपांसि समाचरता तेन ब्रह्मर्षिषु स्थानं प्राप्तम्। प्रसिद्ध गायत्री मन्त्रं समाजाय प्रयच्छता तेन अचिरात् प्रसिद्धिः लब्धा। जपतः जनान् अभीष्टफलं प्रददती गायत्रीलोके कामधेनुरूपेण प्रसिद्ध प्राप्तवती। मुक्तिं कामयमानौः जनैः गायत्री मन्त्रस्य शक्त्या भास्वतः सूर्यदेवात् सद्बुद्धि प्रार्थ्यते।
महर्षिः वसिष्ठः सततं ब्रह्म उपासीनः महतीं सिद्धिं प्राप्तवान्। वसिष्ठेन मृत्युं वशीकुर्वतः महामृत्युञ्जयमन्त्रस्य रचना कृता। एकदा सतसङ्ग तपश्चरणयोंः मध्ये कतरः श्रेष्ठः इति विषये विवादः अभवत्। वसिष्ठः सत्सङ्गस्य पक्षे आसीत्। विश्वामित्रस्य तु स्वतपस्यायाम् अभिमानः आसीत्। परस्परं विवदमानयोः एतयोः विवादे असमाहिते च तौ क्षीरसागरे भगवतः शेषनागस्य सविधे निर्णयार्थम् अगच्छताम्। शेषनागः द्वयोर्मध्ये सत्सङ्गः एव श्रेयान् इत्युक्त्वा विवादस्य समाधानं कृतवान्।