Comprehension Passage

निम्नलिखितम् अपठितं गद्यांश आधारीकृत्य निम्नलिखित-व्याकरण-सम्बधिन: प्रश्ना: समाधेया: -

एकवारं वर्गे कलायस्य शिम्बाः भूमौ पतिताः आसन्। ताः दृष्ट्वा अध्यापकस्य कोपः आगतः। कोपेन अध्यापकः "कः अत्र शिम्बाः पातितवान्?" इति पृष्टवान्। तदा सर्वे विद्यार्थिनः भयेन परस्परं मुखं दृष्टवन्तः।

पुनः अध्यापक: "सत्यं वदन्तु, कः कलायं खादित्वा अत्र वर्गे शिम्बा: स्थापितवान्? इति पृष्टवान्।"

कृतं दोषम् अङ्गीकर्तुं कोऽपि सिद्धः न आसीत्। अध्यापकः कोपं सोढुम् अशक्नुवन् - 'सर्वे दण्डनीयाः' इति निश्चितवान्। “सर्वे उत्थाय स्वहस्तं प्रसारयन्तु" इति सूचितवान् च।

सर्वे उत्थाय हस्तं प्रसारितवन्तः। तेषु एकः हस्तं न प्रसारितवान्। अध्यापकः महता कोपेन तं पृष्टवान् "भवान् किमर्थं हस्तं न प्रसारितवान्?" इति।

तदा सः धैर्येण उक्तवान् - "अहं हस्तं न प्रसारयामि। यतः अहं कलायं न खादितवान्" इति।

अध्यापकः तस्य उत्तरं श्रुत्वा क्रोधेन उक्तवान्" एव तर्हि यः पातितवान् तस्य नाम वदतु' इति। 

तदा बालकः उक्तवान् "अहं पिशुनः न। अतः कस्यापि नाम न वदामि। ताडनम् अपि न स्वीकरोमि" इति। 

तदा अध्यापकस्य कोपः द्विगुणितः जातः। स उक्तवान् - "भवान् मम वर्गे न उपविशतु। बहिर्गच्छतु" इति। 

तदापि बालकः किञ्चिदपि भयम् अप्रदर्शयन् पुस्तकम् स्वीकृत्य बहिः गतवान्।

एषः अन्यः कोऽपि न, अपि तु भारतीयानां हृदयसिंहासने इदानीम् विराजमानः लोकमान्यः अपि बालगङ्गाधरतिलकमहोदयः।

बालकः किमर्थं ताडनम् न स्वीकरोत्?

1
सः बहिः गन्तुम् इच्छामि
2
सः शिम्बाः पातितवान्
3
सः दुखितः नासीत्
4
सः धूर्तः नासीत्

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation