सूचना - निम्नलिखितम् अपठितं गद्यांश आधारीकृत्य निम्नलिखित-व्याकरण-सम्बधिन: प्रश्ना: समाधेयाः -
श्री गुरु तेग बहादुरः सिक्खानाम् नवमः गुरुः आसीत्। सः धर्म-रक्षायै बलिदानम् अकरोत्। श्री गुरोः जन्मस्थानम् अमृतसर-नगरम् आसीत्। श्री गुरोः जनकः श्री हर गोबिन्दः माता च 'माता नानकी' आसीत्।
सः बाल्यकालाद् एव शूरवीर आसीत्। श्री गुरोः पत्नी 'माता गुजरी' आसीत्। श्री गुरोः पुत्रः श्री गुरु गोबिन्द सिंहः आसीत्।
औरंगज़ेब- पीड़िताः काश्मीर पण्डिताः एकदा श्री गुरोः समीपम् आगच्छत्। ते निजदुःखम् श्री गुरुम् अकथयन्। पण्डितानाम् दुःखेन दुःखितः श्री गुरुः औरंगज़ेबस्य राजसभायाम् दिल्ली नगरम् अगच्छत्। औरंगज़ेबः तम् धर्म परिवर्तनाय अकथयत्। परम् श्री गुरुः तदादेशम् अस्वीकरोत् बलिदानाय च तत्परः अभवत्। औरंगज़ेबः दिल्ली-नगरस्य चांदनी-चत्वरे श्री गुरोः प्राणान् अहरत्। तत्र अधुना 'शीशगंज गुरुद्वारः' अस्ति।
सत्यम् हि, श्री गुरु तेगबहादुर हिन्दस्य प्रच्छदः अस्ति।