निर्देश: अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्य: समुचितम् उत्तरं चित्वा लिखत।
महाकविः कालिदासः संस्कृतसाहित्यस्य सर्वश्रेष्ठः कविरस्ति। तेन विरचितानि मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् चेति त्रीणि नाटकानि सन्ति। एतेषु नाटकेषु अभिज्ञानशाकुन्तलमं तु न केवलं संस्कृतसाहित्यस्य अपितु विश्वस्य सर्वश्रेष्ठं नाटकमस्ति।
उच्यते यत् -
“काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।”
शाकुन्तलनाटकस्य वैशिष्ट्यविषये जर्मनकवेः गेटे महोदयस्य भावम्। द्योतयता एकेन विदुषा कथितं यत्-
“एकीभूतमभूतपूर्वमथवा स्वर्गलोकभूलोकयोः।
ऐश्वर्यं यदि वाञ्छसि प्रियसखे! शाकुन्तलं सेव्यताम्॥”
सप्त-अङ्कात्मके नाटकेऽस्मिन् दुष्यन्तशकुन्तलयोः कथा तथा तयोः शिशोः भरतस्य शौर्यं वर्णितम्। तस्य भरतस्य नाम्ना एव अस्माकं देशस्य नाम “भारतवर्षम्” इति प्रसिद्धम् अस्ति। नाट्येस्मिन् भरतवाक्यमाध्यमेन महाकविः कथयति -
"प्रवर्तताम् प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतीमहीयताम्।
ममापि च क्षपयतु नीललोहितः, पुनर्भवम् परिगतशक्तिरात्मभः॥”