Comprehension Passage

सूचना - अधोलिखितं गद्यांश पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम् उत्तरं चिनुत-

नवग्रामे एकः वृषभः आसीत्। सः यथेच्छम् अभ्रमत् तृणानि च अभक्षयत्। सः महाकायः अभवत्। वृषभस्य शरीरम् श्वेतम् शृंगौ च कृष्णौ आस्ताम्।
एकदा प्रातः काले सः वने अभ्रमत्। पवनः सलिलम् अवहत्। तत्र मशकाः अपि इतस्ततः उत्पतन्ति स्म। एकः मशकः वृषभस्य शृंगम् आरोहत। वृषभः मन्दम् मन्दम् अचलत्। मशकः अचिन्तयत् "एष मम भारेण पीडितः अस्ति। अत एव शीघ्रम् न चलति।" मशकः तम् अपृच्छत् “भो वृषभ! किम् मम भारेण पीडितः असि ?"
इति श्रुत्वा वृषभः अहसत् अवदत् च, "न अहम् तव भारम् गणयामि। त्वम् यथाशक्ति कूर्दनम् उत्प्लवनम् वा कुरु। यदि इच्छसि तर्हि निजपरिवारम् अपि आनय। "मशकः एतत् श्रुत्वा लज्जया अधावत्।
सत्यम् एव कथयन्ति जनाः- 'क्षुद्रः स्वल्पम् अपि स्वम् बहु गणयति।'

'यथेच्छम्' अस्य पदस्य उचितसन्धिच्छेदं वर्तते-

1
यथा + ऐच्छम्
2
यथा + इच्छम्
3
यथ + ईच्छम्
4
यथा + एच्छम्

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation