Comprehension Passage

सूचना - अधोलिखितं गद्यांश पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम् उत्तरं चिनुत-

आनन्दपुरं नाम नगरं पंजाब प्रदेशे अति पवित्र तीर्थस्थानम् अस्ति। सिक्खानां नवमः गुरुः श्री तेग़बहादुरः एतत् नगरं स्थापितवान्। तस्य सुतः श्री गोबिन्दसिंह निज-बाल्यकालम् अत्र एव  अयापयत्।
यदा कश्मीर-वासिनः पण्डित-जनाः आनन्दपुरे आगत्य गुरु तेग़ बहादुरं निज-कष्टम् अकथयन्, तदा बालः अपि श्री-गोबिन्दसिंहः धर्मस्य रक्षायै निज-पितरम् आत्म-बलिदानाय अवदत्।

ततः च गुरु तेगबहादुर: दिल्ली नगरे आत्म-बलिदानम् अकरोत्। तस्य शीर्षं दिल्ली नगरात् जैता- नामकः भक्तः आनन्दपुरे आनयत्। तस्य शीर्षस्य अन्तिम संस्कारं श्री गोबिन्दसिंहः आनन्दपुरे अकरोत्। आनन्दपुरे एव श्री गोबिन्दसिंह: सिक्खानां दशमः गुरुः घोषितः। 
अनन्तरं 1699- तमे वर्षे वैशाखी पर्व-दिवसे गुरु-गोबिन्दसिंह: निज-भक्तानां समागमम् आनन्दपुरे अकरोत्। अस्मिन् समागमे बहवः जनाः समागच्छन्। तत्र गुरु गोबिन्दसिंह: तान् बलिदानाय प्रेरयितुम् एकैकं पञ्चजनान् शीर्ष-दानाय आह्वयत् ते एव पञ्च जनाः पञ्च-प्रियाः कथ्यन्ते। गुरु गोबिन्दसिंहः तान् पञ्चप्रियान् अमृतपानम् अकारयत्। गुरु गोबिन्दसिंहः स्वयमपि तेषां हस्तात् अमृतपानम् अकरोत्। एषः एव अवसरः खालसापन्थ-सर्जनाय प्रसिद्धः अभवत्।
अस्मिन्नेव स्थाने गुरु-सिक्खा: प्रतिवर्षं होलामुहल्ला नामकं पर्वं मानयन्ति। 1999 तमे ईसाब्दे अप्रैलमासस्य त्रयोदश-तारिकायां आनन्दपुरसाहिबे खालसापन्थस्य स्थापनाम् अधिकृत्य त्रिशततमः समारोह महता उत्साहेन सम्पादितः। देशात् विदेशात् च जनाः अत्र आगत्य स्वजीवनं सफलम् अकुर्वन्। आनन्दपुर-साहिबं परितः क्रोशं यावत् दीपमाला आसीत्। केशगढ़ साहिब गुरुद्वारस्य शोभा तु तदा अद्वितीया एव आसीत्। सत्यम् एव, आनन्दपुर-नगरम् परमानन्दस्य स्थानम् अस्ति।

कस्य अन्तिमसंस्कारं आनन्दपुरे कृतवान्?

1
गुरुगोविन्दस्य
2
गुरुतेगबहादुर-शीर्षस्य
3
गुरुतेगबहादुरस्य
4
जैतानामक-भक्तस्य

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation