Comprehension Passage

सूचना - अधोलिखितं गद्यांश पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम् उत्तरं चिनुत-

मम गृहस्य अग्रे उपवनम् अस्ति। अत्र वृक्षाः, लताः, पादपाः, हरितानि तृणानि च सन्ति। वृक्षेषु फलानि सन्ति। बालकाः वृक्षेभ्यः फलानि त्रोटयन्ति खादन्ति च। लतासु खगाः कूजन्ति। लतानाम् सुन्दराणि पुष्पाणि सन्ति। भ्रमराः पुष्पेषु गुंजन्ति। जनाः पुष्पाणाम् मालाः कण्ठे धारयन्ति।
उपवने विविधाः पादपाः सन्ति। मालाकारः पादपान् सिञ्चति। उपवनस्य हरितानि तृणानि मनः आकर्षन्ति। सन्ध्याकाले बालाः अत्र उपविशन्ति खेलन्ति च।
उपवनस्य मध्ये एकः सरोवरः अपि अस्ति। शुकाः, चटकाः, कपोताः, कोकिलाः च तत्र कलरवम् कुर्वन्ति। बालकाः विहगान् पश्यन्ति प्रसीदन्ति च। उपवनस्य शोभा अतिरमणीया अस्ति। तत्र आगत्य मनः प्रसन्नः भवति।

जनाः पुष्पाणां माला कुत्र धारयन्ति?

1
शिरसि
2
हस्तयोः
3
कण्ठे
4
पादयोः

Sponsored

hivanix.in

Visit

This quiz is brought to you by hivanix.in

🌐 Web App Development

Quick Navigation