सूचनाः अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
पुरा एकस्मिन् ग्रामे मनोहरः धर्मचन्द्रश्च द्वे मित्रे प्रतिवसतः। तौ विदेशात्धनं अर्जयित्वा नीतवन्तौ। तौ विचारितवन्तौ यद् गृहे इदं धनं सुरक्षितं न स्यात्। एवं विमृश्य तद् धनम् एकस्य वृक्षस्य मूले गतं विधाय निक्षिप्तवन्तौ। द्वयोर्मध्ये परस्परं मतैक्यम् अभवत् यत् यस्मै आवश्यकता भविष्यति सः अपरेण सह आगत्य निष्कास्यति। मनोहरः सरलः सत्यनिष्ठः चासीत् किन्तु धर्मचन्दः अतीव चतुरः छद्मबुद्धिश्च आसीत्।
धर्मचन्दः अन्येद्युः निभृतं गत्वा सर्वं धनम् आहृतवान्। ततश्च धर्मचन्दः मनोहरम् अवोचत्-" मित्र। चलतु, किञ्चद् धनम् आहर्तव्यम्। द्वौ अपि वृक्षस्य अन्तिकम् आगतवन्ती। तत्र धनं नासीत्। धर्मचन्दः मनोहरम् आक्षिप्तवान् यत्तेन धनम् अपहृतम् इति। ततस्ती विवदमानौ राजानं प्रति गच्छतः। द्वयोः विवादं श्रुत्वा राजा अब्रवीत्- "भवतु नाम, श्वः निम्बवृक्षस्य साक्ष्यम् अवाप्य एव कश्चित् निर्णयः भविता।" सत्यनिष्ठः मनोहरः विचारितवान् यद् इदमेव समीचीम्। निम्बतरुः असत्यं न वक्ष्यति। धर्मचन्दोऽपि प्रसन्नः आसीत्। अपरेद्युः राजा द्वाभ्यां सह निम्बवृक्षं प्रत्यगच्छत्। तैः सह समुत्सुकानां जनानां सम्मर्दः अपि आसीत्। ते सर्वे सत्यं ज्ञातुं वा छन्ति स्म।
राजा निम्बवृक्षं पृष्टवान् "हे निम्बदेवा कथय, धनं केन अपहृतम्?" "मनोहरेण"- इति निम्बमूलात्स्वरः प्रकटितः। एतत् श्रुत्वा मनोहरः बाष्पकण्ठः रुरोद अब्रवीत् च-" महाराज! एष निम्बतरुः असत्यं वक्तुं नार्हति। अत्र काचित् छद्मयोजना वर्तते। अहं सद्य एव प्रमाणितं करोमि।" मनोहरः शुष्केन्धनं संहृत्य वृक्षमूले निधाय अग्निं प्रज्वालितवान्। तत्कालमेव वृक्षमूलात्- "रक्षतु-रक्षतु इति स्वरसंयोगः श्रुतः। राजा सैनिकान् आदिष्टवान्- तत्र योऽपि भवेत् तं बहिः आनयतु।" सैनिकाः वृक्षकोटरे स्थितं जनं बहिः आनीतवन्तः। तं दृष्टवा सर्वे विस्मृताः आसन्। यतोहि स धर्मचन्दस्य वृद्धः पिता आसीत्। राजा सर्वम् अपि ज्ञातवान्। स पितरं पुत्रञ्च कारागारे निक्षिप्तवान्। अपि च, तत्सर्वम् धनम् सपुरस्कारं मनोहराय संप्राप्य तं सभाजितवान्।