Comprehension Passage
अधोलिखितं गद्य - खण्डं पठित्वा प्रश्नानां समीचीनम् उत्तरं चिनुत-
उपर उपलो मेघो भवति। उपरमन्तेऽस्मिन्नभ्राणि। उपरता आप इति वा। तेषामेषा भवति- 'देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन्। त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम्।।' - देवानां निर्माणे प्रथमा अतिष्ठन् माध्यमिका देवगणाः। प्रथम इति मुख्यनाम प्रथमो भवति। कृन्तत्रमन्तरिक्षं विकर्तनं मेघानां विकर्त्तनेन मेघानामुदकं जायते। त्रयस्तपन्ति पृथिवीमनूपाः। पर्जन्योः वायुरादित्यः शीतोष्णवर्षैरोषधीः पाचयन्त्यनूपा अनुवपन्ति लोकान्स्वनेन स्वेन कर्म्मणा। अयमपीतरोऽनूप एतस्मादेवानूप्यत उदकेनापि वान्वाविति स्याद्यथा प्रागिति तस्यानूप इति स्याद्यथा प्राचीनमिति। द्वा बृबूकं वहतः पुरीषम्। वाय्वादित्या उदकं बृबूकमित्युदकनाम....।
उपरिलिखित-परिच्छेदमनुसृत्य अधोलिखितेषु 'अनूपाः' इति पदं केषां विशेषणमस्ति?
1
रवि-पृथिवी-जलानाम्
2
अपस्तेजसादित्यानाम्
3
पृथिवी-जल-वायूनाम्
4
वायुरादित्यपर्जन्यानाम्