Comprehension Passage
अधोलिखितं गद्य - खण्डं पठित्वा प्रश्नानां समीचीनम् उत्तरं चिनुत-
तात! चन्द्रापीड! विदितवेदितव्यस्य अधीत सर्वशास्त्रस्य ते नाल्पमप्युपहेष्टव्यमस्ति केवालश्च निसर्गत एव अभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् अपरिणामोपशमो दारुणो लक्ष्मीमदः यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः अनुज्झितधवलतापि सरागवे भवति यूनां दृष्टिं भवादृशा एव भवन्ति भाजनानि उपदेशानाम् अपगतमले हि मनसि स्फटिकमणाविव राजनिकरगभस्तयो विशन्ति सुखेन उपदेशगुणाः सरस्वती परिगृहीतमीर्ष्ययेव नालिङ्गति जनम् गुणवंतमपवित्रमिव न स्पृशति उदारसत्वममङ्गलमिव न बहु मन्यते इति शुकनासोपदेशं श्रुत्वा राजकुमारोऽतितरां धर्जितःएष आदेशः कस्मै प्रदीयते?
1
शुकनासाय
2
तारापीडाय
3
चन्द्रापीडाय
4
कादम्बर्यै